होम › वेद मंत्र › मधुराष्टकम्

मधुराष्टकम्

स्तोत्र · 10 श्लोक

अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं, गमनं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥ १ ॥

वसनं मधुरं, चरितं मधुरं, वचनं मधुरं वलितं मधुरम्, चलितं मधुरं, भ्रमितं मधुरं, मधुराधिपतेरखिलं मधुरम्॥ २ ॥

वेणर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ, नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ३ ॥

गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरम्, रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ४ ॥

करणं मधुरं, तरणं मधुरं, हरणं मधुरं, रमणं मधुरम्, वमितं मधुरं, शमितं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥ ५ ॥

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा, सलिलं मधुरं, कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ६ ॥

गोपी मधुरा लीला मधुरा, राधा मधुरा मिलनं मधुरम्, दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ७ ॥

गोपा मधुरा गावो मधुरा, यष्टिर्मधुरा सृष्टिर्मधुरा, दलितं मधुरं, फलितं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥ ८ ॥

॥ इति श्रीमद्वल्लाभाचार्य विरचित मधुराष्टकं संपूर्णं ॥

॥ श्रीकृष्णार्पणमस्तु ॥

स्रोत: Wikisource · CC BY-SA 4.0

अपनी राय भेजें

बताइए क्या बेहतर करें, क्या गलत है, या आपको क्या अच्छा लगा। हम हर संदेश पढ़ते हैं।

किस बारे में
शंख आपके लिए कितना उपयोगी है? (वैकल्पिक)