॥ऋणविमोचनगणेशस्तोत्रम्॥
सिन्दूरवर्णं द्विभुजं गणेशं लम्बोदरं पद्मदले निविष्टम्। ब्रह्मादिदेवैः परिसेव्यमानं सिद्धैर्युतं तं प्रणमामि देवम्॥
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये। सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे॥ १ ॥
त्रिपुरस्य वधात्पूर्वं शम्भुना सम्यगर्चितः। सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे॥ २ ॥
हिरण्यकश्यपादीनां वधार्थे विष्णुनार्चितः। सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे॥ ३ ॥
महिषस्य वधे देव्या गणनाथः प्रपूजितः। सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे॥ ४ ॥
तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः। सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे॥ ५ ॥
भास्करेण गणेशो हि पूजितश्छविसिद्धये। सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे॥ ६ ॥
शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः। सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे॥ ७ ॥
पालनाय च तपसां विश्वामित्रेण पूजितः। सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे॥ ८ ॥
इदं त्वृणहरं स्तोत्रं तीव्रदारिद्र्यनाशनम्। एकवारं पठेन्नित्यं वर्षमेकं समाहितः॥ दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत्॥ ९ ॥
॥ इति श्रीकृष्णयामलतन्त्रे उमामहेश्वरसंवादे ऋणविमोचनगणेशस्तोत्रं सम्पूर्णम् ॥
स्रोत: Wikisource · CC BY-SA 4.0