श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्
अष्टोत्तर शतनाम (108 नावे) · 19 श्लोक
॥ श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् ॥
मङ्गल बीज मन्त्र - ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥
महीसुतो महाभागो मंगळो मंगळप्रदः । महावीरो महाशूरो महाबलपराक्रमः ॥ १ ॥
महारौद्रो महाभद्रो माननीयो दयाकरः । मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ २ ॥
सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः । वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ ३ ॥
वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः । नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ ४ ॥
क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः । अक्षीणफलदः चक्षुर्गोचरष्षुभलक्षणः ॥ ५ ॥
वीतरागो वीतभयो विज्वरो विश्वकारणः । नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥ ६ ॥
कमनीयो दयासारः कनत्कनकभूषणः । भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ ७ ॥
शत्रुहन्ता शमोपेतः शरणागतपोषकः । साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥ ८ ॥
दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः । दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥ ९ ॥
दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः । भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ १० ॥
रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः । चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥ ११ ॥
शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः । तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥ १२ ॥
तप्तकाञ्चनसंकाशो रक्तकिञ्जल्कसन्निभः । गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ १३ ॥
असृजंगारकोऽवन्तीदेशाधीशो जनार्दनः । सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिऽग्मुखः ॥ १४ ॥
त्रिकोणमण्डलगतो त्रिदशाधिपसन्नुतः । शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ १५ ॥
मेषवृश्चिकराशीशो मेधावी मितभाषणः । सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ १६ ॥
॥ इति मङ्गल एवं अङ्गारकाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥
स्रोत: Wikisource · CC BY-SA 4.0