त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारम् एकबिल्वं शिवार्पणम् ॥ १ ॥
त्रिशाखैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः । तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २ ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारम् एकबिल्वं शिवार्पणम् ॥ ३ ॥
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ४ ॥
तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा । पञ्चबिल्वमिति ख्याता एकबिल्वं शिवार्पणम् ॥ ५ ॥
तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् । कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ॥ ६ ॥
दन्त्यश्वकोटिदानानि अश्वमेधशतानि च । कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ॥ ७ ॥
सालग्रामसहस्राणि विप्रान्नं शतकोटिकम् । यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ८ ॥
अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत् । तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ ९ ॥
एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत् । महादेवस्य पूजार्थम् एकबिल्वं शिवार्पणम् ॥ १० ॥
अमृतोद्भववृक्षस्य महादेवप्रियस्य च । मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः ॥ ११ ॥
॥ ॐ तत्सत् ॥
स्रोत: Wikisource · CC BY-SA 4.0