ब्रह्ममुरारि सुरार्चित लिङ्गम् निर्मलभासितशोभितलिङ्गम् । जन्मजदुःखविनाशकलिङ्गम् तत्प्रणमामि सदाशिवलिङ्गम् ॥ १ ॥
देवमुनिप्रवरार्चितलिङ्गम् कामदहनकरुणाकरलिङ्गम् । रावणदर्पविनाशनलिङ्गम् तत्प्रणमामि सदाशिवलिङ्गम् ॥ २ ॥
सर्वसुगन्धसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम् । सिद्धसुरासुरवन्दितलिङ्गम् तत्प्रणमामि सदाशिवलिङ्गम् ॥ ३ ॥
कनकमहामणिभूषितलिङ्गम् फणिपतिवेष्टितशोभितलिङ्गम् । दक्षसुयज्ञविनाशनलिङ्गम् तत्प्रणमामि सदाशिवलिङ्गम् ॥ ४ ॥
कुङ्कुमचन्दनलेपितलिङ्गम् पङ्कजहारसुशोभितलिङ्गम् । सञ्चितपापविनाशनलिङ्गम् तत्प्रणमामि सदाशिवलिङ्गम् ॥ ५ ॥
देवगणार्चितसेवितलिङ्गम् भावैर्भक्तिभिरेव च लिङ्गम् । दिनकरकोटिप्रभाकरलिङ्गम् तत्प्रणमामि सदाशिवलिङ्गम् ॥ ६ ॥
अष्टदलोपरिवेष्टितलिङ्गम् सर्वसमुद्भवकारणलिङ्गम् । अष्टदरिद्रविनाशनलिङ्गम् तत्प्रणमामि सदाशिवलिङ्गम् ॥ ७ ॥
सुरगुरुसुरवरपूजितलिङ्गम् सुरवनपुष्पसदार्चितलिङ्गम् । परात्परं परमात्मकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम् ॥ ८ ॥
लिङ्गाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥
स्रोत: Wikisource · CC BY-SA 4.0