॥ अथ श्री महालक्ष्म्यष्टकम् ॥
श्रीगणेशाय नमः ॥ इंद्र उवाच ॥
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १ ॥
नमस्ते गरुडारुढे कोलासुर भयंकरी । सर्वपापहरे देवी महालक्ष्मि नमोऽस्तुते ॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरी । सर्वदुःखहरे देवी महालक्ष्मि नमोऽस्तुते ॥ ३ ॥
सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनि । मंत्रमूर्ते सदा देवी महालक्ष्मि नमोऽस्तुते ॥ ४ ॥
आद्यंतरहिते देवी आद्यशक्ति महेश्वरि । योगजे योगसंभूते महालक्ष्मि नमोऽस्तुते ॥ ५ ॥
शूल सूक्ष्ममहारौद्रे महाशक्ति महोदरे । महापापहरे देवी महालक्ष्मि नमोऽस्तुते ॥ ६ ॥
पद्मासनस्थिते देवी परब्रह्मस्वरुपिणि । परमेशि जगन्मातार्महालक्ष्मि नमोऽस्तुते ॥ ७ ॥
श्वेतांबरधरे देवी नानालंकार भूषिते । जगत्स्थिते जगन्मातार्महालक्ष्मि नमोऽस्तुते ॥ ८ ॥
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः । सर्वसिद्धिमवाप्नोति राज्य प्राप्तेति सर्वदा ॥ ९ ॥
एककाले पठेन्नित्यं महापापविनाशनम् । द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १० ॥
त्रिकालं यः पठेन्नित्यं महाशत्रुंविनाशनम् । महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ ११ ॥
इतिंद्रकृतः श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ॥
स्रोत: Wikisource · CC BY-SA 4.0