मुख्यपृष्ठ › वेद मंत्र › मन्त्रपुष्पम् (तैत्तिरीयम्)

मन्त्रपुष्पम् (तैत्तिरीयम्)

मंत्र · तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद) · 28 श्लोक

ॐ धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥

ॐ स॒ह॒स्र॒शी॑र्षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवम् । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ वि॒श्वं ना॑राय॒णग्ꣳ ह॑रिम् । विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति ॥

पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ग्ꣳ॒ शाश्व॑तग्ꣳ शि॒वम॑च्युतम् । ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम् । ना॒राय॒णः प॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः । ना॒राय॒णः प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः ॥

ना॒राय॒णः प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः । यच्च॑ कि॒ञ्चिज्ज॑गत्स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा । अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णस्स्थि॑तः । अन॑न्त॒मव्य॑यं क॒विग्ꣳ स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम् ॥

प॒द्म॒को॒शप्र॑तीका॒श॒ग्ꣳ॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् । अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति । ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् । सन्त॑तग्ꣳ सि॒राभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् ॥

तस्यान्ते॑ सुषि॒रग्ꣳ सू॒क्ष्मं तस्मिन्᳚ स॒र्वं प्रति॑ष्ठितम् । तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः । सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः । ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता ॥

स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः । तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑ता । नी॒लतो॑यद॑मध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ॥

तस्या᳚श्शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः । स ब्रह्म॒ स शिव॒स्स हरि॒स्सेन्द्र॒स्सोऽक्ष॑रः पर॒मः स्व॒राट् ॥

यो॑ऽपां पुष्पं॒ वेद॑ । पुष्प॑वान्प्र॒जावा᳚न्पशु॒मान्भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्प᳚म् । पुष्प॑वान्प्र॒जावा᳚न्पशु॒मान्भ॑वति । य ए॒वं वेद॑ ॥

यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ॥

यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ॥

यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ॥

यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ॥

यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ॥

यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ॥

यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ॥

यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥

किं तद्विष्णोर्ब॑लमा॒हुः । का॒ दीप्तिः॑ किं प॒राय॑णम् । एको॑ य॒द्धार॑यद्दे॒वः । रे॒जती॑ रोद॒सी उ॑भे । वाताद्विष्णोर्ब॑लमा॒हुः । अ॒क्षराद्दीप्ति॒रुच्य॑ते । त्रि॒पदा॒द्धार॑यद्दे॒वः । यद्विष्णो॑रेक॒मुत्त॑मम् ॥

रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ । नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न्काम॒कामा॑य॒ मह्य᳚म् । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ ॥

ओं᳚ तद्ब्र॒ह्म । ओं᳚ तद्वा॒युः । ओं᳚ तदा॒त्मा । ओं᳚ तत्स॒त्यम् । ओं᳚ तत्सर्वम्᳚ । ओं᳚ तत्पुरो॒र्नमः॑ ॥

अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु । त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वग्ꣳ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः । त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥

ईशानस्सर्व॑विद्या॒ना॒मीश्वरस्सर्व॑भूता॒नां॒ । ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

तद्विष्णोः᳚ पर॒मं प॒दग्ꣳ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् । तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ꣳस॒स्समि॑न्धते । विष्णो॒र्यत्प॑र॒मं प॒दम् ॥

ऋ॒तग्ꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् । ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥

ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥

म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि । तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥

आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥

ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

स्रोत: Wikisource · CC BY-SA 4.0

तुमचा अभिप्राय पाठवा

काय सुधारायचे, काय चुकीचे आहे, किंवा तुम्हाला काय आवडले ते सांगा. आम्ही प्रत्येक संदेश वाचतो.

कशाबद्दल
शंख तुम्हाला किती उपयोगी आहे? (ऐच्छिक)