मुख्यपृष्ठ › वेद मंत्र › नवग्रहस्तोत्रम्

नवग्रहस्तोत्रम्

स्तोत्रे · 24 श्लोक

॥ अथ नवग्रहस्तोत्रम् ॥

॥ रविः ॥

जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्। तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥ १ ॥

॥ सोमः ॥

दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥ २ ॥

॥ मङ्गलः ॥

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्। कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥ ३ ॥

॥ बुधः ॥

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्। सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥ ४ ॥

॥ गुरुः ॥

देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्। बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥ ५ ॥

॥ शुक्रः ॥

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्। सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥ ६ ॥

॥ शनिः ॥

नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्। छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥ ७ ॥

॥ राहुः ॥

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्। सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्॥ ८ ॥

॥ केतुः ॥

पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्। रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥ ९ ॥

॥ फलश्रुतिः ॥

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः। दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति॥

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम्। ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्॥

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः। ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः॥

॥ इति श्रीव्यासविरचितम् आदित्यादिनवग्रहस्तोत्रं सम्पूर्णम् ॥

स्रोत: Wikisource · CC BY-SA 4.0

तुमचा अभिप्राय पाठवा

काय सुधारायचे, काय चुकीचे आहे, किंवा तुम्हाला काय आवडले ते सांगा. आम्ही प्रत्येक संदेश वाचतो.

कशाबद्दल
शंख तुम्हाला किती उपयोगी आहे? (ऐच्छिक)