मुख्यपृष्ठ › वेद मंत्र › श्रीवेङ्कटेशसुप्रभातम्

श्रीवेङ्कटेशसुप्रभातम्

स्तोत्रे · 31 श्लोक

॥ अथ श्री वेङ्कटेश सुप्रभातम् ॥

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २

मातस्समस्तजगतां मधुकैटभारेः वक्षोविहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥ ३

तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदयिते दयानिधे ॥ ४

अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ५

पञ्चाननाब्जभवषण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासर शुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ६

ईषत्प्रफुल्लसरसीरुहनारिकेल पूगद्रुमादिसुमनोहरपालिकानां । आवाति मन्दमनिलस्सह दिव्यगन्धैः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ७

उन्मील्य नेत्रयुगमुत्तम पंजरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ८

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या गायत्यनन्तिचरितं तव नारदोऽपि । भाषासमग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ९

भृङ्गावली च मकरन्दरसानुविद्ध झङ्कारगीत निनदैःसह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १०

योषागणेन वरदध्निविमथ्यमाने घोषालयेषु दधिमन्थनतीव्रघोषाः । रोषात्कलिं विदधतेककुभश्च कुम्भाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ११

पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १२

श्रीमन्नभीष्ट वरदाखिललोकबन्धो श्रीश्रीनिवास जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तर दिव्य मूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १३

श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः श्रेयोऽर्थिनो हरविरिंचसनन्दनाद्याः । द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १४

श्री शेषशैल गरुडाचल वेङ्कटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् । आख्याम् त्वदीय वसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १५

सेवापराः शिवसुरेशकृशानुधर्म रक्षोऽम्बुनाथ पवमान धनाधिनाथाः । बद्धांजलि प्रविलसन्निजशीर्ष देशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १६

घाटीषु ते विहगराज मृगाधिराज- नागाधिराज गजराज हयाधिराजाः । स्वस्वाधिकार महिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १७

सूर्येन्दु भौम बुध वाक्पति काव्य सौरि स्वर्भानु केतु दिविषत्परिषत्प्रधानाः । त्वद्दास दास चरमावधि दासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १८

त्वत्पादधूलि भरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः । कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १९

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २०

श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्त गरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २१

श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिन्ह शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २२

कन्दर्पदर्प हरसुन्दर दिव्यमूर्ते कान्ताकुचाम्बुरुह कुट्मल लोलदृष्टे । कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २३

मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र । शेषांशराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २४

एला लवङ्ग घनसार सुगन्धि तीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाऽऽद्य वैदिक शिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ २५

भास्वानुदेति विकचानि सरोरुहाणि संपूरयन्ति निनदैः ककुभो विहङ्गाः । श्रीवैष्णवास्सततमर्थित मङ्गलास्ते धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् ॥ २६

ब्रह्मादयः सुरवरास्समहर्षयस्ते सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः । धामान्तिके तव हि मङ्गलवस्तु हस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २७

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो संसार सागर समुत्तरणैकसेतो । वेदान्तवेद्यनिजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २८

इत्थं वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २९

॥ इति वेङ्कटेश सुप्रभातम् ॥

स्रोत: Wikisource · CC BY-SA 4.0

तुमचा अभिप्राय पाठवा

काय सुधारायचे, काय चुकीचे आहे, किंवा तुम्हाला काय आवडले ते सांगा. आम्ही प्रत्येक संदेश वाचतो.

कशाबद्दल
शंख तुम्हाला किती उपयोगी आहे? (ऐच्छिक)